অস্মাকং
দেশে অনেকে উৎসবাঃ ভবন্তি। তেষু হােলিকোৎসবঃ
অন্যতমঃ
উৎসাহবর্ধকঃ উৎসবঃ।ফাল্গুন-পূর্ণিমায়াম্ অয়ম্ উৎসবঃ ভবতি। হােলিকা
হিরণ্যকশিপােঃ ভাগিনী আসীৎ। তস্যাঃ দাহঃ ভবতি উৎসবস্য
রাত্রৌ। বিবিধরঙ্গময়ানি জলানি জনেষু নিক্ষিপ্য
অবীরালেপনেন চ অয়ম্ উৎসবঃ পাল্যতে।
Sanskrit Essay on Mahatma Gandhi महात्मा गान्धिः इति प्रसिद्धः मोहनदासकरमचन्दगान्धिः (१८६९-१९४८) गुजरातस्य पोरबन्दरनामके नगरे जन्म प्राप्तवान् । तस्य उदारान् मानवीयान् गुणान् दृष्ट्वा कवि: रवीन्द्रनाथठाकुर: तं महात्मा इति शब्देन सम्बोधितवान् । तत: पश्चात् सर्वे भारतीया: तं महात्मा गान्धिः इति एव अभिजानन्ति ।भारतमातुः श्रेष्ठः पुत्रः महात्मा गान्धिः स्वातन्त्र्यान्दोलने सर्वेषां भारतीयानाम् आधारभूतः मार्गदर्शकः च आसीत् । अत एव गान्धिजयन्ती पर्व राष्ट्रियपर्वरुपेण आचर्यते । दक्षिण-आफ्रिकादेशेऽपि महात्मा गान्धिः उत्तमं कार्यं कृतवान् । अस्य पिता श्री करमचन्दगान्धिः राजकोटसंस्थाने पोरबन्दरसंस्थाने च दिवान् इति प्रसिद्धः आसीत् । माता श्रीमती पुतलीबायी साध्वी व्रतोपावासादिधर्मानुसारिणी प्रेममयी च आसीत् । मोहनदासगान्धिमहोदयस्य बाल्यं पोरबन्दरनगरे उत्तमपरिसरे सहजसुन्दरम् आसीत् । मातुः सेवाभावः त्यागबुद्धिः सर्वप्रियता इत्येते गुणाः पुत्रेऽपि परिणामम् अकुर्वन् । विद्याभ्याससमये मोहनदासगान्धिः साधारणबालकः आसीत् । मोहनदासगान्धिः राजकोटनगरे प्रौढविद्याभ्यासं कृतवान् । वि...