Skip to main content

Posts

Showing posts from February, 2020

महात्मा गान्धिः निबंध: | Sanskrit Essay on Mahatma Gandhi

Sanskrit Essay on Mahatma Gandhi महात्मा गान्धिः इति प्रसिद्धः मोहनदासकरमचन्दगान्धिः (१८६९-१९४८) गुजरातस्य पोरबन्दरनामके नगरे जन्म प्राप्तवान् । तस्य उदारान् मानवीयान् गुणान् दृष्ट्वा कवि: रवीन्द्रनाथठाकुर: तं महात्मा इति शब्देन सम्बोधितवान् । तत: पश्चात् सर्वे भारतीया: तं महात्मा गान्धिः इति एव अभिजानन्ति ।भारतमातुः श्रेष्ठः पुत्रः महात्मा गान्धिः स्वातन्त्र्यान्दोलने सर्वेषां भारतीयानाम् आधारभूतः मार्गदर्शकः च आसीत् । अत एव गान्धिजयन्ती पर्व राष्ट्रियपर्वरुपेण आचर्यते । दक्षिण-आफ्रिकादेशेऽपि महात्मा गान्धिः उत्तमं कार्यं कृतवान् ।  अस्य पिता श्री करमचन्दगान्धिः राजकोटसंस्थाने पोरबन्दरसंस्थाने च दिवान् इति प्रसिद्धः आसीत् । माता श्रीमती पुतलीबायी साध्वी व्रतोपावासादिधर्मानुसारिणी प्रेममयी च आसीत् । मोहनदासगान्धिमहोदयस्य बाल्यं पोरबन्दरनगरे उत्तमपरिसरे सहजसुन्दरम् आसीत् । मातुः सेवाभावः त्यागबुद्धिः सर्वप्रियता इत्येते गुणाः पुत्रेऽपि परिणामम् अकुर्वन् । विद्याभ्याससमये मोहनदासगान्धिः साधारणबालकः आसीत् । मोहनदासगान्धिः राजकोटनगरे प्रौढविद्याभ्यासं कृतवान् । विनयशी

महाभारतम् निबंध:| Sanskrit Essay on Mahabharata

Sanskrit Essay on Mahabharata महाभारतम् महर्षिणा वेदव्यासेन विरचितः बहुप्रसिद्धः इतिहासः विद्यते। अस्मिन् ग्रन्थे कौरव-पाण्डवानां महायुद्दं मुख्य-विषयरूपेण वर्णितमस्ति। मानवजीवनस्य धर्मार्थ-काम-मोक्ष-रूपाः समस्तपुरुषार्थाः अत्र विशालग्रन्थे सन्निवेशिताः। अस्य महाभारत स्य भीष्मपर्वणि श्रीमद्‌भगवद्‌गीता विद्यते। भगवता कृष्णेन मोहग्रस्तम् अर्जुनं प्रति ज्ञान-कर्म-भक्ति-विषयकः उपदेशः गीतायां प्रदत्तः। अस्यां गीतायामपि अष्टादश अध्यायाः सन्ति। मानव-जीवनस्य विविधविषयाः अत्र समीचीनतया प्रतिपादिताः सन्ति। इयं विश्वजनीन-कृतिः कालजयिनी चिरन्तनी एव। Sanskrit Essay on Mahabharata Sanskrit Essay on Mahabharata महाभारतम् निबंध: | Sanskrit Essay on Mahabharata

अमेरिका-संयुक्त-संस्थानम् निबंध: | Essay on United States Of America

अमेरिका-संयुक्त-संस्थानम् निबंध: | Essay on United States Of America उत्तर अमेरिका खंडे एकः देशः अस्ति। अस्मिन् देशे ५० राज्यानि सन्ति। देशस्य राजधानीवाषिंग्टन् डी सी नगरम्। अट्लांटिक् महासागरः, पेसिफ़िक् महासागरः च एतं देशं परितः स्त:। उत्तरदिशि केनडा देश: अस्ति। अमेरिका-संयुक्त-संस्थानम् निबंध: | Essay on United States Of America अमेरिका-संयुक्त-संस्थानम् |Essay on United States Of America

पशवः निबंध: | Sanskrit Essay on Animals

पशवः निबंध: | Sanskrit Essay on Animals पशवः जीविनः वर्तन्ते। ते स्वभोजनं रचयितुं न शक्नुवन्ति। अतः ते अन्यान् पशून् पादपान् अथवा गोलासान् भक्षयन्ति। केचन पीठमर्दाः(नायकस्य साहय्यका:) अपि सन्ति। अस्मिन् जगति अनेकाः पशुजातयः सन्ति। केचन पशवः विशालाः केचन लघवः सन्ति। केचन पशवः जलवासिनः सन्ति। केचन पशवः उड्डयनॆ समर्था:।  शाकभक्षकाः पादपान् खादन्ति। मांसभक्षकाः अन्यान् पशून् भक्षयन्ति। उभयभक्षकाः पशून् पादपान् च खादन्ति।  केचन पशवः सङ्गे वसन्ति। अन्ये पशवः एकचारिणः सन्ति। भ्रमराः करण्डे वसन्ति। तेषां नेत्री भ्रमर-राज्ञी इति कथ्यते।  लोकेSस्मिन् विविधाः पशवः सन्ति। तान् यथावर्गं रचयितुम् शक्नुमः। तेषु द्वौ प्रमुखौ वर्गौ स्तः अस्थिमन्तः अनस्थिमन्तः च। कर्कटाः वृश्चिकाः प्रवालाः कीटाः षट्पदाः शम्बूकाः च अनस्थिमन्तः सन्ति। अस्थिमत्सु पञ्चवर्गाः सन्ति। ते मत्स्याः मण्डूकादयः सर्पादयः पक्षिणः कशिनः च। पशवः निबंध: | Sanskrit Essay on Animals पशवः निबंध: | Sanskrit Essay on Animals

महाराष्ट्र निबंध: | Sanskrit Essay on Maharashtra

महाराष्ट्र निबंध: | Sanskrit Essay on Maharashtra महाराष्ट्रं भारतस्‍य पश्‍चिमे कश्चन प्रान्‍त: अस्‍ति। मुम्बयी इति महाराष्ट्रराज्यस्य राजधानी। अन्यानि नगराणि नागपुरं, पुणे, सोलापुरम् इत्यादयः। भारतस्य ९.८४% क्षेत्रफलं महाराष्ट्रराज्ये अस्ति। महाराष्ट्रस्य जनसन्ख्या ९,६७,५२,२४७ मिता । जनसंख्यायाः घनत्वम् ३१४.४२ जनाः प्रति वर्ग किमी. इत्यस्ति। महाराष्ट्रम् अतीव धनसम्पन्नम् राज्यम् अस्ति। अयं प्रान्तः भारतस्य सकलगृहोत्पादने १३.२% , औद्योगिक उत्पादने च १५% च योगदानं करोति  महाराष्ट्रस्य पश्चिमे सिन्धुसागरः, उत्तरे दादरा ,नगर हवेली, मध्यप्रदेशः च, तस्य पूर्वदिशायां छत्तीसगढ़ः दक्षिणपूर्वदिशायाम् आंध्रप्रदेशः तथा दक्षिणदिशायां कर्नाटकं गोवा च इति राज्यानि सन्ति। महाराष्ट्रस्य क्षेत्रफलं ३,०७,७३१ वर्ग किमी. अस्ति. भारतस्य ९.८४% क्षेत्रफलं महारष्ट्ररज्ये अस्ति.  सह्याद्री पर्वतमाला (वा पश्चिमघट्ट:) महाराष्ट्रस्य तीरस्य समान्तरम् अस्ति। तस्याः पश्चिमे कोङ्कण-तटप्रदेश: वर्तते। पर्वतमालायाः पूर्वदिशायां दक्खन् अधित्यका: सन्ति। एष: बह्वीनां नदीनां स्रोतःअस्ति। महाराष्ट्र निबंध: | Sanskrit Es

भारतस्य राजधानी - दिल्ली निबंध: | Sanskrit Essay on Delhi

भारतस्य राजधानी - दिल्ली निबंध: | Sanskrit Essay on Delhi दिल्ली अथवा देहली भारतस्य राजधानी अस्ति। नवदिल्ली पश्यतु। भारतस्‍य राज्येषु अन्यतमम् अस्ति । भारतदेशस्य राजधानी देहली विश्वस्य अतिविशालासु नगरीषु अन्यतमा इति गण्यते । एषा भारतस्य तृतीया बृहती नगरी वर्तते । दिल्ली इत्यपि विश्रुता इयं नगरी पाचीनकाले हस्तिनापुरमिति ख्याता आसीत् । इन्द्रसभायामपि सभाजितानां भरतकुलोत्पन्नानां महीपालानां राजधानी अद्यतनीया देहली एव । मुगलवंशीयानां चक्रवार्तिनां तथा आङ्गलानामपि अधिकारिणां केन्द्रभूमिर्भूत्वा देहली अधुनापि भारतीयगणराज्यस्य राजधनीपदमलङ्करोति ।  सर्वेषु प्रेक्षणीयेषु स्थानेषु बिर्लामन्दिरमिति ख्यातं लक्ष्मीनारायणमन्दिरं विशेषतया उल्लेखनीयम् । यतः मन्दिरमिदं भारतीयचरित्रं संस्कृतिञ्च प्रकटयति तथा भृशं विस्मयमपि जनयति ।  दिल्ल्यामेव भारतदेशस्य जीवननिरूपकं संसद्भवनम् अस्ति । अत्रैव उच्चतमन्यायप्रदाता अत्युच्चन्यायालयो वर्तते । सर्वप्रधानपदमलङ्कृतवान् राष्ट्रपतिः देहल्याम् एव विराजते । अतः देहली भारतस्य हृदयमेव यमुनातीरे परिविस्तृता देहली दशाधिकक्रोशमितभूभागम् आक्रम्य अवतिष्ठते । क्रिस्तपूर्व

रामायण निबंध: | Sanskrit Essay on Ramayana

रामायण निबंध: | Sanskrit Essay on Ramayana रामस्य अयनं (चरितं) रामायणम् । रामायणम् आदिकाव्यं सर्वेषां काव्यानां जीवातुभूतं च भवति । रामायणं महाभारतवत् कश्चित् इतिहासग्रन्थः भवति । संस्कृतसाहित्ये रामायणवत् प्रसिध्दः लोकप्रियः च अन्यः ग्रन्थः नास्तीति वक्तुं शक्यते । नीतिदृष्ट्या काव्यात्मकदृष्ट्या लोकोपकारकदृष्ट्या च रामायणस्य महत्त्वं वर्धते । पितृपुत्रधर्मस्य पतिपत्नीधर्मस्य भ्रातृधर्मस्य तथा अन्यकौटुम्बिकधर्मस्य च आदर्शभूतः अयं ग्रन्थः ॥ आदिकाव्यस्य रामायणस्य कर्ता श्रीमद्वाल्मीकिः । श्रीवाल्मीकिः पूर्वं कश्चित् तस्करः आसीत् रत्नाकरः इति नाम्ना । सप्तर्षीणां दर्शनानन्तरं राममन्त्रजपपूर्वकतपसा रत्नाकरः वाल्मीकिः संजातः । रामायणे न केवलं युध्दमात्रं वर्णितम अपि च सकलालङ्काराणां प्रकृतिसौन्दर्यस्य च् धर्मस्य च वर्णना दृश्यते । सरलसंस्कृतभाषापठनार्थम अत्यन्तओपयिगि साधनं च भवत्येतत् ॥ रामायणम् आदिकव्यम् इति प्रसिद्धम्। इतिहासग्रन्थः इत्यपि भाव्यते एतत्। एतस्य ग्रन्थस्य रचयिता वाल्मीकिः। किरातकुले उत्पन्नः सः नारदस्य उपदेशात् तपः अकरोत्। तस्य शरीरम् आवृत्य वल्मीकः उत्पन्नः। ततः सः बहिः

आर्यभटः निबंध: | Sanskrit Essay on Aryabhata

आर्यभटः निबंध: | Sanskrit Essay on Aryabhata आर्यभटः (४७६ - ५५०) महान् गणितज्ञः, ज्योतिर्विदः च आसीत्। तस्य जन्म अश्मकदेशे अभवत्। सः कुसुमपुर्याम् अपठत् अवसत् च। यदा सः त्रयोविंशतिवर्षीयः तदा सः आर्यभटीयम्अलिखत्। केषाञ्चन वर्षाणाम् अनन्तरं सः आर्यभटीयसिद्धान्तम् अलिखत्। सः गुप्तकाञ्चनकाले अवसत्। ज्योतिश्शास्त्रस्य शास्तीयत्वं परिकल्पितम् आर्यभटेन एव । आर्यभटम् ’ आर्यभट्टः ’ इत्यपि निर्दिशन्ति केचन । आर्यभटः क्रि.श. ४७६ तमे वर्षे पाटलीपुत्रनगरे (पाटना) जातः इति, क्रि.श. ४९९ तमे वर्षे एषः ‘आर्यभटीयम्’ इति ग्रन्थं लिखितवान् इति च ज्ञायते । एषः स्वस्य २३ तमे वयसि एव एतं सिद्धान्तप्रतिपादकं श्रेष्ठं ग्रन्थं रचितवान् आसीत् । एतस्मात् एव वयम् ऊहितुं शक्नुमः यत् एतस्य प्रतिभा कीद्दशी आसीत् इति । आर्यभटीयग्रन्थे महासङ्ख्याः अपि संज्ञारूपेण कथं सङ्ग्रहेण लेखनीयाः इति विषयः, वर्ग-घनमूल-त्रिभुजादिगणितविषयाः, कटपयादिसंज्ञाक्रमः, कालविभाग-नक्षत्रगति-भगण-दिनरात्र्यादिविषयाः चापि विवृताः सन्ति । ‘मया नूतनतया किमपि न उच्यते, पूर्वजैः उक्तम् एव स्फुटतया निरूप्यते’ इति स्वग्रन्थे उक्तवान् अस्ति एषः । पञ

गुरुनानक निबंध: ( Sanskrit Essay on Gurunanak )

गुरुनानक निबंध: ( Sanskrit Essay on Gurunanak ) पिता उपनयनं कर्तुम् उद्युक्तवान् । बालः नानकः यज्ञोपवीतधारणं नाङ्गीकृतवान् । " तत् तृटयति, अपवित्रं भवति, गमनसमये नैव सहागमिष्यति" इति वदति स्म। न केवलं तत्, " दयां कार्पासं कृत्वा, सन्तृप्तिं सूत्रं कृत्वा, निग्रहं बन्धनं कृत्वा ध्रीयते चेत् तदेव यज्ञोपवीतं भवति" इति स: प्रतिवदति स्म। "तादृशं यज्ञोपवीतं यः धरति सः एव दैवानुग्रहं प्राप्नोति" इति उक्तवान् । नानकस्य भार्या सुलखनी । श्रीचन्द्रः, लक्ष्मीदासश्च तस्य पुत्रौ । 'कृषिं कुरु' इति पिता प्रार्थितवान् । "मम देहक्षेत्रे मनः कृषीवलः, शीलमेव कृषिः, विनय एव जलम्, भगवद्भक्तिरेव बीजम्, सन्तृप्तिः हलः, दारिद्र्यं सीमा । प्रेम्णा पोषणं क्रियते चेत् वृक्षोप्तत्तिः भवति" इति भागवततत्त्वं ज्ञापयति स्म । "प्रतिदिनं पञ्चविषयान् प्रार्थयामि । प्रथमं सत्यं, द्वितीयं विशुध्दजीवनं, तृतीयं दैवानुग्रहं, चतुर्थं परिशुध्दं मनः,पञ्चमं दैवचिन्तनम् " इत्यवदत् । बाह्यसौन्दर्यसहितानां कर्मणामपेक्षया आत्मसौन्दर्यमेव श्रेष्ठम् । तदेव भगवतः समीपं प्रापयती

पाणिनिः | Sanskrit Essay On Panini

पाणिनिः  | Sanskrit Essay On Panini पाणिनिः संस्कृतस्य महान् वैयाकरणः ।  पाणिनेः जन्म क्रिस्तपूर्वसप्तमशताब्द्यां शलातुरग्रामे अभवत् । अतः तस्य 'शलातुरीयः' इति नाम अति प्रसिद्धम् अस्ति । वर्तमानकाले पाकिस्थानदेशे स्थितः लहुरनामकः ग्रामः एव शलातुरग्रामः अस्ति । पाणिनेः मातुः नाम दाक्षी । अतः एव सः दाक्षीपुत्रः इत्यपि कथ्यते । 'पणिनः' इति तस्य पितुः नाम । अतः तस्य नाम ' पाणिनिः ' अभवत् । आचार्यः वर्षः पाणिनेः गुरुः आसीत् । पाणिनिः 'तक्षशिला'विद्यापीठे शिक्षां प्राप्तवान्  |  पञ्चतन्त्रानुसारेण पाणिनेः मुत्युः सिंहकारणात् अभवत् - 'सिंहो व्याकरणस्य कर्तुरहरत् प्राणान् प्रियान् पाणिनेः ।' परम्परानुसारेण पाणिनेः मृत्युः त्रयोदशीतिथ्याम् अभवत् । अतः एव पण्डितपरम्परायाम् अधुना अपि त्रयोदश्यां व्याकरणस्य अनध्यायः भवति | पाणिनिः  | Sanskrit Essay On Panini पाणिनिः  | Sanskrit Essay On Panini

बालगङ्गाधर तिलकः निबंध: | Sanskrit Essay on Bal Gangadhar Tilak

बालगङ्गाधर तिलकः निबंध: |  Sanskrit Essay on Bal Gangadhar Tilak Sanskrit Essay on Bal Gangadhar Tilak बालगङ्गाधर तिलकः निबंध:   |  Sanskrit Essay on Bal Gangadhar Tilak बालगङ्गाधर तिलकः (1856-1920) महान् राष्ट्रभक्तः । भारतस्य स्वातन्त्रसङ्ग्रामे प्रमुखः नेता आसीत् । स्वतन्त्रताया: आन्दोलनस्य प्रसङ्गे स: अघोषयत्‌, "स्वराज्यम्‌ अस्माकं जन्मसिद्ध: अधिकार:." इति ।  समाचारपत्राणां प्रकाशनं सम्पादनं च कृत्वा स: देशसेवां करोति स्म । बहुबारम्‌ कारागारवासम् अनुभूतवान् स: संस्कृते विद्वान्‌ आसीत्‌ । बालगङ्गाधर तिलकः निबंध:  | Sanskrit Essay on Bal Gangadhar Tilak मम प्रिय नेता संस्कृत निबंध लोकमान्य तिलक |

युधिष्ठिरः | Sanskrit Essay on Yudhisthira

युधिष्ठिरः | Sanskrit Essay on Yudhisthira युधिष्ठिरः पञ्चपाण्डवेषु ज्येष्ठः । पाण्डुमहाराजस्य पुत्रः । कुन्ती अस्य माता । भीमः, अर्जुनः च युधिष्ठिरस्य अनुजौ । नकुलः सहदेवः च युधिष्ठिरस्य विमातुः माद्र्याः पुत्रौ । अयं युधिष्ठिरः यमधर्मराजस्य वरेण जन्म प्राप्नोत् । महाभारतस्य प्रमुखेषु पात्रेषु अन्यतमम् अस्ति युधिष्ठिरस्य पात्रम् । जीवने सर्वदा धर्माचरणं कुर्वन् युधिष्ठिरः "धर्मराजः" इत्येव प्रसिद्धः । युधिष्ठिरः | Sanskrit Essay on Yudhisthira युधिष्ठिरः | Sanskrit Essay on Yudhisthira

मुम्बई | Sanskrit Essay on Mumbai | Essay on Mumbai in Sanskrit

मुम्बई | Sanskrit Essay on Mumbai | Essay on Mumbai in Sanskrit मुम्बई भारतस्‍य महाराष्ट्रप्रान्‍तस्‍य राजधानी अस्‍ति। एतद् नगरं भरतदेशस्य विशालं नगरम्। भारते लोकसंख्यया प्रथमं, पृथिव्यां द्वितीयं च एतन्नगरं वर्तते। भारतस्य पश्चिमे समुद्रतटे एतद् नगरं स्थितम्।  मुम्बई न केवलं महाराष्ट्रराज्यस्य राजधानी, अपि तु भारतदेशस्य वित्तीयमनोरंजनस्य राजधानी अपि वर्तते। भारतीय आरक्षितः अधिकोषः, मुम्बई शेर बाजार, राष्ट्रीय शेर बाजार इत्येतादृशाः नैके महत्वपूर्णाः संस्थाः अत्र सन्ति । अपि अत्र अनेकेषां सङ्घटनानां मुख्यकर्यालयाः सन्ति। मुम्बईनगरं हिन्दीभाषायां-चलचित्रस्यापि केन्द्रं। संजयगांधीराष्ट्रीयोद्यानं, लवणक्षेत्राणि, मैंग्रोववनानि आदि प्राकृतिकस्थलानि एतस्य नगरस्य समीपे वर्तते। मुम्बई | Sanskrit Essay on Mumbai | Essay on Mumbai in Sanskrit मुम्बई | Sanskrit Essay on Mumbai 

स्वातन्त्र्यदिनोत्सवः | Sanskrit Essay on Independence Day | Independence Day Essay in Sanskrit

    स्वातन्त्र्यदिनोत्सवः | Sanskrit Essay on Independence Day | Independence Day Essay in Sanskrit           भारतस्वतन्त्रतादिनम्  'अगस्त'-मासस्य पञ्चदशे (१५/८) दिनाङ्के राष्ट्रियोत्सवत्वेन आभारते आचर्यते । १९४७ तमस्य वर्षस्य 'अगस्त'-मासस्य पञ्चदशे दिनाङ्के भारतगणराज्यं स्वतन्त्रम् अभवत् । अतः एतद्दिनं भारतस्वातन्त्र्यदिनोत्सवत्वेन आचर्यते । तत्पूर्वं ब्रिटिश-जनाः भारतस्योपरि शासनं कुर्वन्ति स्म । १९४७ तमस्य वर्षस्य 'अगस्त'-मासस्य चतुर्दशे (१४/८/१९४७) दिनाङ्के मध्यरात्रौ द्वादशवादने आङ्ग्लाः भारतगणराज्यस्य शासनं भारतीयेभ्यः यच्छन्तः भारतत्यागम् अकुर्वन् । भारतस्वतन्त्रतायाः तत् दिनं भारते राष्ट्रियपर्वत्वेन आचर्यते ।              स्वातन्त्र्योत्सवस्य प्रमुखः कार्यक्रमः देहली-महानगरस्थे रक्तदुर्गे (लालकिला, red fort) भारतगणराज्यस्य राष्ट्रपतेः भाषणेन आरभते । ततः प्रधानमन्त्रिद्वाराध्वजारोहणं भवति । अनन्तरं प्रधानमन्त्री सर्वकारस्य कार्याणां योजनां प्राकटयन् सर्वेभ्यः शुभाशयं यच्छति । ततः सर्वेषां राज्यानां राजधानीषु मुख्यमन्त्रिणःध्वजारोहणं कृत्वा जनेभ्यः शुभा

पक्षिणः निबंध: | Sanskrit Essay on Birds | Birds Sanskrit Essay

Sanskrit Essay on Birds | Birds Sanskrit Essay पक्षः अस्य अस्ति इति पक्षी। साधारणतया खगार्थे रूढः अयम् शब्द: अस्थिमत्सु पक्षिणां काचित् श्रेणि: वर्तते। ते उष्णरक्तजीविन: सन्ति। ते अण्डजाः। तेषां शरीरं पक्षैः संवृद्धं भवति। तेषाम् अस्थीनि जर्जराणि सन्ति। ते द्विपदाः सन्ति। अद्य नवसहस्रपक्षिजातयः पृथिव्यां जीवन्ति। केचन पक्षिणः मांसं खादन्ति अन्ये फलानि शलाटून् झषान् वा भक्षयन्ति। विश्वेSस्मिन् डिण्डिमपक्षी लघुतमः अस्ति। तेषां रूक्षः चञ्चुः अस्ति। ते विभिन्नवर्णीया: भवन्ति। कोकिलादयः पक्षिणः मधुरम् गायन्ति । ते नीडेषु वसन्ति। Sanskrit Essay on Birds | Birds Sanskrit Essay पक्षिणः | Sanskrit Essay on Birds | Birds Sanskrit Essay Sanskrit Essay on Birds | Birds Sanskrit Essay Sanskrit Essay on Birds | Birds Sanskrit Essay Sanskrit Essay on Birds | Birds Sanskrit Essay पक्षिणः | Sanskrit Essay on Birds | Birds Sanskrit Essay Sanskrit Essay on Birds | Birds Sanskrit Essay Sanskrit Essay on Birds | Birds Sanskrit Essay Sanskrit Essay on

Essay on Holi in Sanskrit for Kids of Class VIII

Essay on Holi in Sanskrit for Kids of Class VIII Essay on Holi in Sanskrit for Kids of Class VIII