Skip to main content

Popular posts from this blog

महाभारतम् निबंध:| Sanskrit Essay on Mahabharata

Sanskrit Essay on Mahabharata महाभारतम् महर्षिणा वेदव्यासेन विरचितः बहुप्रसिद्धः इतिहासः विद्यते। अस्मिन् ग्रन्थे कौरव-पाण्डवानां महायुद्दं मुख्य-विषयरूपेण वर्णितमस्ति। मानवजीवनस्य धर्मार्थ-काम-मोक्ष-रूपाः समस्तपुरुषार्थाः अत्र विशालग्रन्थे सन्निवेशिताः। अस्य महाभारत स्य भीष्मपर्वणि श्रीमद्‌भगवद्‌गीता विद्यते। भगवता कृष्णेन मोहग्रस्तम् अर्जुनं प्रति ज्ञान-कर्म-भक्ति-विषयकः उपदेशः गीतायां प्रदत्तः। अस्यां गीतायामपि अष्टादश अध्यायाः सन्ति। मानव-जीवनस्य विविधविषयाः अत्र समीचीनतया प्रतिपादिताः सन्ति। इयं विश्वजनीन-कृतिः कालजयिनी चिरन्तनी एव। Sanskrit Essay on Mahabharata Sanskrit Essay on Mahabharata महाभारतम् निबंध: | Sanskrit Essay on Mahabharata

रामायण निबंध: | Sanskrit Essay on Ramayana

रामायण निबंध: | Sanskrit Essay on Ramayana रामस्य अयनं (चरितं) रामायणम् । रामायणम् आदिकाव्यं सर्वेषां काव्यानां जीवातुभूतं च भवति । रामायणं महाभारतवत् कश्चित् इतिहासग्रन्थः भवति । संस्कृतसाहित्ये रामायणवत् प्रसिध्दः लोकप्रियः च अन्यः ग्रन्थः नास्तीति वक्तुं शक्यते । नीतिदृष्ट्या काव्यात्मकदृष्ट्या लोकोपकारकदृष्ट्या च रामायणस्य महत्त्वं वर्धते । पितृपुत्रधर्मस्य पतिपत्नीधर्मस्य भ्रातृधर्मस्य तथा अन्यकौटुम्बिकधर्मस्य च आदर्शभूतः अयं ग्रन्थः ॥ आदिकाव्यस्य रामायणस्य कर्ता श्रीमद्वाल्मीकिः । श्रीवाल्मीकिः पूर्वं कश्चित् तस्करः आसीत् रत्नाकरः इति नाम्ना । सप्तर्षीणां दर्शनानन्तरं राममन्त्रजपपूर्वकतपसा रत्नाकरः वाल्मीकिः संजातः । रामायणे न केवलं युध्दमात्रं वर्णितम अपि च सकलालङ्काराणां प्रकृतिसौन्दर्यस्य च् धर्मस्य च वर्णना दृश्यते । सरलसंस्कृतभाषापठनार्थम अत्यन्तओपयिगि साधनं च भवत्येतत् ॥ रामायणम् आदिकव्यम् इति प्रसिद्धम्। इतिहासग्रन्थः इत्यपि भाव्यते एतत्। एतस्य ग्रन्थस्य रचयिता वाल्मीकिः। किरातकुले उत्पन्नः सः नारदस्य उपदेशात् तपः अकरोत्। तस्य शरीरम् आवृत्य वल्मीकः उत्पन्नः। ततः सः बहिः

आर्यभटः निबंध: | Sanskrit Essay on Aryabhata

आर्यभटः निबंध: | Sanskrit Essay on Aryabhata आर्यभटः (४७६ - ५५०) महान् गणितज्ञः, ज्योतिर्विदः च आसीत्। तस्य जन्म अश्मकदेशे अभवत्। सः कुसुमपुर्याम् अपठत् अवसत् च। यदा सः त्रयोविंशतिवर्षीयः तदा सः आर्यभटीयम्अलिखत्। केषाञ्चन वर्षाणाम् अनन्तरं सः आर्यभटीयसिद्धान्तम् अलिखत्। सः गुप्तकाञ्चनकाले अवसत्। ज्योतिश्शास्त्रस्य शास्तीयत्वं परिकल्पितम् आर्यभटेन एव । आर्यभटम् ’ आर्यभट्टः ’ इत्यपि निर्दिशन्ति केचन । आर्यभटः क्रि.श. ४७६ तमे वर्षे पाटलीपुत्रनगरे (पाटना) जातः इति, क्रि.श. ४९९ तमे वर्षे एषः ‘आर्यभटीयम्’ इति ग्रन्थं लिखितवान् इति च ज्ञायते । एषः स्वस्य २३ तमे वयसि एव एतं सिद्धान्तप्रतिपादकं श्रेष्ठं ग्रन्थं रचितवान् आसीत् । एतस्मात् एव वयम् ऊहितुं शक्नुमः यत् एतस्य प्रतिभा कीद्दशी आसीत् इति । आर्यभटीयग्रन्थे महासङ्ख्याः अपि संज्ञारूपेण कथं सङ्ग्रहेण लेखनीयाः इति विषयः, वर्ग-घनमूल-त्रिभुजादिगणितविषयाः, कटपयादिसंज्ञाक्रमः, कालविभाग-नक्षत्रगति-भगण-दिनरात्र्यादिविषयाः चापि विवृताः सन्ति । ‘मया नूतनतया किमपि न उच्यते, पूर्वजैः उक्तम् एव स्फुटतया निरूप्यते’ इति स्वग्रन्थे उक्तवान् अस्ति एषः । पञ

भारतस्य राजधानी - दिल्ली निबंध: | Sanskrit Essay on Delhi

भारतस्य राजधानी - दिल्ली निबंध: | Sanskrit Essay on Delhi दिल्ली अथवा देहली भारतस्य राजधानी अस्ति। नवदिल्ली पश्यतु। भारतस्‍य राज्येषु अन्यतमम् अस्ति । भारतदेशस्य राजधानी देहली विश्वस्य अतिविशालासु नगरीषु अन्यतमा इति गण्यते । एषा भारतस्य तृतीया बृहती नगरी वर्तते । दिल्ली इत्यपि विश्रुता इयं नगरी पाचीनकाले हस्तिनापुरमिति ख्याता आसीत् । इन्द्रसभायामपि सभाजितानां भरतकुलोत्पन्नानां महीपालानां राजधानी अद्यतनीया देहली एव । मुगलवंशीयानां चक्रवार्तिनां तथा आङ्गलानामपि अधिकारिणां केन्द्रभूमिर्भूत्वा देहली अधुनापि भारतीयगणराज्यस्य राजधनीपदमलङ्करोति ।  सर्वेषु प्रेक्षणीयेषु स्थानेषु बिर्लामन्दिरमिति ख्यातं लक्ष्मीनारायणमन्दिरं विशेषतया उल्लेखनीयम् । यतः मन्दिरमिदं भारतीयचरित्रं संस्कृतिञ्च प्रकटयति तथा भृशं विस्मयमपि जनयति ।  दिल्ल्यामेव भारतदेशस्य जीवननिरूपकं संसद्भवनम् अस्ति । अत्रैव उच्चतमन्यायप्रदाता अत्युच्चन्यायालयो वर्तते । सर्वप्रधानपदमलङ्कृतवान् राष्ट्रपतिः देहल्याम् एव विराजते । अतः देहली भारतस्य हृदयमेव यमुनातीरे परिविस्तृता देहली दशाधिकक्रोशमितभूभागम् आक्रम्य अवतिष्ठते । क्रिस्तपूर्व

महाराष्ट्र निबंध: | Sanskrit Essay on Maharashtra

महाराष्ट्र निबंध: | Sanskrit Essay on Maharashtra महाराष्ट्रं भारतस्‍य पश्‍चिमे कश्चन प्रान्‍त: अस्‍ति। मुम्बयी इति महाराष्ट्रराज्यस्य राजधानी। अन्यानि नगराणि नागपुरं, पुणे, सोलापुरम् इत्यादयः। भारतस्य ९.८४% क्षेत्रफलं महाराष्ट्रराज्ये अस्ति। महाराष्ट्रस्य जनसन्ख्या ९,६७,५२,२४७ मिता । जनसंख्यायाः घनत्वम् ३१४.४२ जनाः प्रति वर्ग किमी. इत्यस्ति। महाराष्ट्रम् अतीव धनसम्पन्नम् राज्यम् अस्ति। अयं प्रान्तः भारतस्य सकलगृहोत्पादने १३.२% , औद्योगिक उत्पादने च १५% च योगदानं करोति  महाराष्ट्रस्य पश्चिमे सिन्धुसागरः, उत्तरे दादरा ,नगर हवेली, मध्यप्रदेशः च, तस्य पूर्वदिशायां छत्तीसगढ़ः दक्षिणपूर्वदिशायाम् आंध्रप्रदेशः तथा दक्षिणदिशायां कर्नाटकं गोवा च इति राज्यानि सन्ति। महाराष्ट्रस्य क्षेत्रफलं ३,०७,७३१ वर्ग किमी. अस्ति. भारतस्य ९.८४% क्षेत्रफलं महारष्ट्ररज्ये अस्ति.  सह्याद्री पर्वतमाला (वा पश्चिमघट्ट:) महाराष्ट्रस्य तीरस्य समान्तरम् अस्ति। तस्याः पश्चिमे कोङ्कण-तटप्रदेश: वर्तते। पर्वतमालायाः पूर्वदिशायां दक्खन् अधित्यका: सन्ति। एष: बह्वीनां नदीनां स्रोतःअस्ति। महाराष्ट्र निबंध: | Sanskrit Es

युधिष्ठिरः | Sanskrit Essay on Yudhisthira

युधिष्ठिरः | Sanskrit Essay on Yudhisthira युधिष्ठिरः पञ्चपाण्डवेषु ज्येष्ठः । पाण्डुमहाराजस्य पुत्रः । कुन्ती अस्य माता । भीमः, अर्जुनः च युधिष्ठिरस्य अनुजौ । नकुलः सहदेवः च युधिष्ठिरस्य विमातुः माद्र्याः पुत्रौ । अयं युधिष्ठिरः यमधर्मराजस्य वरेण जन्म प्राप्नोत् । महाभारतस्य प्रमुखेषु पात्रेषु अन्यतमम् अस्ति युधिष्ठिरस्य पात्रम् । जीवने सर्वदा धर्माचरणं कुर्वन् युधिष्ठिरः "धर्मराजः" इत्येव प्रसिद्धः । युधिष्ठिरः | Sanskrit Essay on Yudhisthira युधिष्ठिरः | Sanskrit Essay on Yudhisthira

शरत्कालः निबंध:। শরৎকালঃ নিবন্ধঃ। Sanskrit Essays on Autumn Season For Class IX-XII

शरत्कालः निबंध:। শরৎকালঃ নিবন্ধঃ। Sanskrit Essays on Autumn Season For Class IX-XII ঋতূনাং মধ্যে শরৎকালঃ তৃতীয়ঃ। বর্ষাপগমে তস্য আবির্ভাবঃ ভবতি। ভাদ্ৰাশ্বিনৌ ব্যাপ্য অয়ং তিষ্ঠতি। তদা মেঘমুক্তং নভঃ সুনির্মলং ভাতি। শােভন্তে চ শেফালিকা যুথিকাশ্চ। কাশাংশুকৈঃ রূপরম্যা শরৎ নেত্রোৎসবং বিধত্তে। বঙ্গীয়ানাং শ্রেষ্ঠঃ উৎসবঃ দুর্গাপূজা শরদি এব অনুষ্ঠীয়তে। शरत्कालः निबंध:। শরৎকালঃ নিবন্ধঃ। Sanskrit Essays on Autumn Season For Class IX-XII

बुद्धिर्यस्य बलं तस्य निबंध:। বুদ্ধির্যস্য বলং তস্য নিবন্ধঃ। Sanskrit Essays on Wisdom Belongs to Him For Class IX-XII

बुद्धिर्यस्य बलं तस्य निबंध:। বুদ্ধির্যস্য বলং তস্য নিবন্ধঃ। Sanskrit Essays on Wisdom Belongs to Him For Class IX-XII বুদ্ধিরেব বলম্। শারীরিকবলং বস্তুতঃ ন বলম্। নরঃ বুদ্ধিবলেন অধিকং বলবন্তং পশুম্ বশীকরােতি। ইদানীং বিদ্যাবুদ্ধিপ্রভাবেণ বিজ্ঞানং সমৃদ্ধং জাতম্। বুদ্ধিবলেন এব অল্পশক্তিঃ শশকঃ দুর্দান্তং সিংহং নিহতবান্। অতঃ বুদ্ধিরেব বলম্।। बुद्धिर्यस्य बलं तस्य निबंध:। বুদ্ধির্যস্য বলং তস্য নিবন্ধঃ। Sanskrit Essays on Wisdom Belongs to Him For Class IX-XII

पाणिनिः | Sanskrit Essay On Panini

पाणिनिः  | Sanskrit Essay On Panini पाणिनिः संस्कृतस्य महान् वैयाकरणः ।  पाणिनेः जन्म क्रिस्तपूर्वसप्तमशताब्द्यां शलातुरग्रामे अभवत् । अतः तस्य 'शलातुरीयः' इति नाम अति प्रसिद्धम् अस्ति । वर्तमानकाले पाकिस्थानदेशे स्थितः लहुरनामकः ग्रामः एव शलातुरग्रामः अस्ति । पाणिनेः मातुः नाम दाक्षी । अतः एव सः दाक्षीपुत्रः इत्यपि कथ्यते । 'पणिनः' इति तस्य पितुः नाम । अतः तस्य नाम ' पाणिनिः ' अभवत् । आचार्यः वर्षः पाणिनेः गुरुः आसीत् । पाणिनिः 'तक्षशिला'विद्यापीठे शिक्षां प्राप्तवान्  |  पञ्चतन्त्रानुसारेण पाणिनेः मुत्युः सिंहकारणात् अभवत् - 'सिंहो व्याकरणस्य कर्तुरहरत् प्राणान् प्रियान् पाणिनेः ।' परम्परानुसारेण पाणिनेः मृत्युः त्रयोदशीतिथ्याम् अभवत् । अतः एव पण्डितपरम्परायाम् अधुना अपि त्रयोदश्यां व्याकरणस्य अनध्यायः भवति | पाणिनिः  | Sanskrit Essay On Panini पाणिनिः  | Sanskrit Essay On Panini