महाराष्ट्र निबंध: | Sanskrit Essay on Maharashtra महाराष्ट्रं भारतस्य पश्चिमे कश्चन प्रान्त: अस्ति। मुम्बयी इति महाराष्ट्रराज्यस्य राजधानी। अन्यानि नगराणि नागपुरं, पुणे, सोलापुरम् इत्यादयः। भारतस्य ९.८४% क्षेत्रफलं महाराष्ट्रराज्ये अस्ति। महाराष्ट्रस्य जनसन्ख्या ९,६७,५२,२४७ मिता । जनसंख्यायाः घनत्वम् ३१४.४२ जनाः प्रति वर्ग किमी. इत्यस्ति। महाराष्ट्रम् अतीव धनसम्पन्नम् राज्यम् अस्ति। अयं प्रान्तः भारतस्य सकलगृहोत्पादने १३.२% , औद्योगिक उत्पादने च १५% च योगदानं करोति महाराष्ट्रस्य पश्चिमे सिन्धुसागरः, उत्तरे दादरा ,नगर हवेली, मध्यप्रदेशः च, तस्य पूर्वदिशायां छत्तीसगढ़ः दक्षिणपूर्वदिशायाम् आंध्रप्रदेशः तथा दक्षिणदिशायां कर्नाटकं गोवा च इति राज्यानि सन्ति। महाराष्ट्रस्य क्षेत्रफलं ३,०७,७३१ वर्ग किमी. अस्ति. भारतस्य ९.८४% क्षेत्रफलं महारष्ट्ररज्ये अस्ति. सह्याद्री पर्वतमाला (वा पश्चिमघट्ट:) महाराष्ट्रस्य तीरस्य समान्तरम् अस्ति। तस्याः पश्चिमे कोङ्कण-तटप्रदेश: वर्तते। पर्वतमालायाः पूर्वदिशायां दक्खन् अधित्यका: सन्ति। एष: बह्वीनां नदीनां स्रोतःअस्ति। महाराष्ट्र निबंध: | Sanskrit Es