पशवः निबंध: | Sanskrit Essay on Animals |
पशवः जीविनः वर्तन्ते। ते स्वभोजनं रचयितुं न शक्नुवन्ति। अतः ते अन्यान् पशून् पादपान् अथवा गोलासान् भक्षयन्ति। केचन पीठमर्दाः(नायकस्य साहय्यका:) अपि सन्ति। अस्मिन् जगति अनेकाः
पशुजातयः सन्ति। केचन पशवः विशालाः केचन लघवः सन्ति। केचन पशवः जलवासिनः सन्ति। केचन पशवः उड्डयनॆ समर्था:। शाकभक्षकाः पादपान् खादन्ति। मांसभक्षकाः अन्यान् पशून् भक्षयन्ति। उभयभक्षकाः पशून् पादपान् च खादन्ति। केचन पशवः सङ्गे वसन्ति। अन्ये पशवः एकचारिणः सन्ति। भ्रमराः करण्डे वसन्ति। तेषां नेत्री भ्रमर-राज्ञी इति कथ्यते। लोकेSस्मिन् विविधाः पशवः सन्ति। तान् यथावर्गं रचयितुम् शक्नुमः। तेषु द्वौ प्रमुखौ वर्गौ स्तः अस्थिमन्तः अनस्थिमन्तः च। कर्कटाः वृश्चिकाः प्रवालाः कीटाः षट्पदाः शम्बूकाः च अनस्थिमन्तः सन्ति। अस्थिमत्सु पञ्चवर्गाः सन्ति। ते मत्स्याः मण्डूकादयः सर्पादयः पक्षिणः कशिनः च।