শরৎকালে ভবঃ শারদঃ। শারদঃ উৎসবঃ শারদোৎসবঃ।
প্রধানতয়া দুর্গাপূজায়াঃ এব শরৎকালে সম্পন্নত্বাৎ দুর্গাপূজাং
নীত্বা যঃ উৎসবঃ সঃ শারদোৎসবঃ উচ্যতে। অত্র উৎসবে
সিংহবাহিনী মহিষমর্দিনী দুর্গা মণ্ডপে মণ্ডপে পূজ্যতে। তম্
উৎসবম্ উপলক্ষ্য অখিলাঃ বঙ্গবাসিনঃ নবীনং বস্ত্রাদিকং
পরিধায় একত্রীভূয় ভ্রমিত্বা খাদিত্বা চ পরস্পরং মিলনানন্দং
অনুভবন্তি। দেবীং নিকষা সর্বে ‘রূপং দেহি জয়ং দেহি যশাে
দেহি দ্বিষাে জহি' ইতি প্রার্থয়ন্তে। শারদোৎসবং বিনা
বঙ্গজীবনম্ তমােময়ম্ ইব।
आर्यभटः निबंध: | Sanskrit Essay on Aryabhata आर्यभटः (४७६ - ५५०) महान् गणितज्ञः, ज्योतिर्विदः च आसीत्। तस्य जन्म अश्मकदेशे अभवत्। सः कुसुमपुर्याम् अपठत् अवसत् च। यदा सः त्रयोविंशतिवर्षीयः तदा सः आर्यभटीयम्अलिखत्। केषाञ्चन वर्षाणाम् अनन्तरं सः आर्यभटीयसिद्धान्तम् अलिखत्। सः गुप्तकाञ्चनकाले अवसत्। ज्योतिश्शास्त्रस्य शास्तीयत्वं परिकल्पितम् आर्यभटेन एव । आर्यभटम् ’ आर्यभट्टः ’ इत्यपि निर्दिशन्ति केचन । आर्यभटः क्रि.श. ४७६ तमे वर्षे पाटलीपुत्रनगरे (पाटना) जातः इति, क्रि.श. ४९९ तमे वर्षे एषः ‘आर्यभटीयम्’ इति ग्रन्थं लिखितवान् इति च ज्ञायते । एषः स्वस्य २३ तमे वयसि एव एतं सिद्धान्तप्रतिपादकं श्रेष्ठं ग्रन्थं रचितवान् आसीत् । एतस्मात् एव वयम् ऊहितुं शक्नुमः यत् एतस्य प्रतिभा कीद्दशी आसीत् इति । आर्यभटीयग्रन्थे महासङ्ख्याः अपि संज्ञारूपेण कथं सङ्ग्रहेण लेखनीयाः इति विषयः, वर्ग-घनमूल-त्रिभुजादिगणितविषयाः, कटपयादिसंज्ञाक्रमः, कालविभाग-नक्षत्रगति-भगण-दिनरात्र्यादिविषयाः चापि विवृताः सन्ति । ‘मया नूतनतया किमपि न उच्यते, पूर्वजैः उक्तम् एव स्फुटतया निरूप्यते’ इति स्वग्रन्थे उक्तवान् अस्ति एषः । पञ...