![]() |
| युधिष्ठिरः | Sanskrit Essay on Yudhisthira |
युधिष्ठिरः पञ्चपाण्डवेषु ज्येष्ठः । पाण्डुमहाराजस्य पुत्रः । कुन्ती अस्य माता । भीमः, अर्जुनः च युधिष्ठिरस्य अनुजौ । नकुलः सहदेवः च युधिष्ठिरस्य विमातुः माद्र्याः पुत्रौ । अयं युधिष्ठिरः यमधर्मराजस्य वरेण जन्म प्राप्नोत् । महाभारतस्य प्रमुखेषु पात्रेषु अन्यतमम् अस्ति युधिष्ठिरस्य पात्रम् । जीवने सर्वदा धर्माचरणं कुर्वन् युधिष्ठिरः "धर्मराजः" इत्येव प्रसिद्धः ।

