गुरुनानक निबंध: ( Sanskrit Essay on Gurunanak ) |
पिता उपनयनं कर्तुम् उद्युक्तवान् । बालः नानकः यज्ञोपवीतधारणं नाङ्गीकृतवान् । " तत् तृटयति, अपवित्रं भवति, गमनसमये नैव सहागमिष्यति" इति वदति स्म। न केवलं तत्, " दयां कार्पासं कृत्वा, सन्तृप्तिं सूत्रं कृत्वा, निग्रहं बन्धनं कृत्वा ध्रीयते चेत् तदेव यज्ञोपवीतं भवति" इति स: प्रतिवदति स्म। "तादृशं यज्ञोपवीतं यः धरति सः एव दैवानुग्रहं प्राप्नोति" इति उक्तवान् । नानकस्य भार्या सुलखनी । श्रीचन्द्रः, लक्ष्मीदासश्च तस्य पुत्रौ । 'कृषिं कुरु' इति पिता प्रार्थितवान् । "मम देहक्षेत्रे मनः कृषीवलः, शीलमेव कृषिः, विनय एव जलम्, भगवद्भक्तिरेव बीजम्, सन्तृप्तिः हलः, दारिद्र्यं सीमा । प्रेम्णा पोषणं क्रियते चेत् वृक्षोप्तत्तिः भवति" इति भागवततत्त्वं ज्ञापयति स्म । "प्रतिदिनं पञ्चविषयान् प्रार्थयामि । प्रथमं सत्यं, द्वितीयं विशुध्दजीवनं, तृतीयं दैवानुग्रहं, चतुर्थं परिशुध्दं मनः,पञ्चमं दैवचिन्तनम् " इत्यवदत् । बाह्यसौन्दर्यसहितानां कर्मणामपेक्षया आत्मसौन्दर्यमेव श्रेष्ठम् । तदेव भगवतः समीपं प्रापयतीति तस्य विश्वासः। अद्वितीयः, सद्रूपः, सत्यस्वरूपः, सर्वव्यापकः, सृष्टिकर्ता, पुरुषोत्तमः, निर्भयः, निर्वैरः, कालातीतः, अभवः, स्वयंभूः, विज्ञानदाता, दयामयः इति भगवच्छब्दस्य निर्वचनं दत्तवान् स:। जातस्य हि ध्रुवो मृत्यु:। गुरुनानकः कर्तारपुरग्रामे अन्तिमसन्देशं दत्त्वा समाधिस्थितिं प्राप्तवान् । गुरुनानकः अस्माकं प्रातःस्मरणीयेषु अन्यतमः ।